(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.125. अध्यायः 125
Mahabharata - Drona Parva - Chapter Topics
द्रोणपराक्रमवर्णनम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-125-0x(4578)(50070)
अपराह्णे महाराज सङ्ग्रामः सुमहानभूत्।
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः॥ 7-125-1(50071)
शोणाश्वं रथमास्थाय नरवीरः समाहितः।
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम्॥ 7-125-2(50072)
तव प्रियहिते युक्तो महेष्वासो महाबलः।
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः।
`जघान सोमकान्राजन्सृञ्जयान्केकयानपि'॥ 7-125-3(50073)
वरान्वरान्हि योधानां विचिन्वन्निव भारत।
आक्रीडत रमे राजन्भारद्वाजः प्रतापवान्॥ 7-125-4(50074)
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः।
भातॄणां नृप पञ्चानां श्रेष्ठः समरकर्कशः॥ 7-125-5(50075)
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं भृशमार्दयत्।
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने॥ 7-125-6(50076)
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान्।
प्रेषयामास सङ्क्रुद्ध- सायकान्दश पञ्च च॥ 7-125-7(50077)
तांस्तु द्रोणविनिर्मुक्तान्क्रुंद्धाशीविषसन्निभान्।
एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत्॥ 7-125-8(50078)
तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः।
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः॥ 7-125-9(50079)
तान्दृष्ट्वा पततस्तूर्णं द्रोणचापच्युताञ्शरान्।
अवारयच्छरैरेव तावद्भिर्निशितैर्मृधे॥ 7-125-10(50080)
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः।
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम्॥ 7-125-11(50081)
ततो द्रोणो महाराज बृहत्क्षत्रं विशेषयन्।
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं सुदुर्जयम्॥ 7-125-12(50082)
कैकेयोऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे।
ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्त्रमशातयत्॥ 7-125-13(50083)
ततोऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रस्तु भारत।
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः॥ 7-125-14(50084)
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत्।
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम्॥ 7-125-15(50085)
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम।
तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे॥ 7-125-16(50086)
सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः।
क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे॥ 7-125-17(50087)
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः।
सारथिं चास्य बाणेन भृशं मर्मस्वताडयत्॥ 7-125-18(50088)
द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष।
असृजद्विशिखांस्तीक्ष्णान्कैकेयस्य रथं प्रति॥ 7-125-19(50089)
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्।
अश्वांश्चतुर्भिरन्यवधीच्चतुरोऽस्य पतत्त्रिभिः॥ 7-125-20(50090)
सूतं चैकेन बाणेन रथनीडादपातयत्।
द्वाभ्यां ध्वजं च च्छत्रं च च्छित्त्वा भूमावपातयत्॥ 7-125-21(50091)
ततः साधुविसृष्टेन नाराचेन द्विजर्षभः।
हृद्यविध्यद्बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत्॥ 7-125-22(50092)
बृहत्क्षत्रे हते राजन्केकयानां महारथे।
शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत्॥ 7-125-23(50093)
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः।
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीं॥ 7-125-24(50094)
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम्।
द्रोणाय प्रापयामास काम्भोजैर्जवनैर्हयैः॥ 7-125-25(50095)
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः।
वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम्॥ 7-125-26(50096)
सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम्।
पुनश्चान्यैः सऱैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव॥ 7-125-27(50097)
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च॥
चकर्त गार्ध्रपत्रेण यतमानस्य शुष्मिणः॥ 7-125-28(50098)
अथान्यद्धनुरादाय शैशुपालिर्महारथः।
विव्याध सायकैर्द्रोणं कङ्कबर्हिणवाजितैः॥ 7-125-29(50099)
तस्य द्रोणो हयान्हत्वा चतुर्भिश्चतुरः शरैः।
सारथेश्च शिरः कायाच्चकर्त प्रहसन्निव॥ 7-125-30(50100)
अथैनं पञ्चविंशत्या सायकानां समार्पयत्॥ 7-125-31(50101)
अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः।
भारद्वाजाय चिक्षेप रुपितामिव पन्नगीम्॥ 7-125-32(50102)
तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम्।
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम्।
शरैरनेकसाहस्रैर्भाद्वाजोऽच्छिनच्छितैः॥ 7-125-33(50103)
सा छिन्ना बहुभिर्बाणैभारद्वाजेन मारिष।
गदा पपात कौरव्य नादयन्ती धरातलम्॥ 7-125-34(50104)
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः।
तोमरं व्यसृजद्वीरः शक्तिं च कन कोज्ज्वलाम्॥ 7-125-35(50105)
तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः।
तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्मता॥ 7-125-36(50106)
ततोऽस्य विशिखं तीक्ष्णं वधाय वधकाङ्क्षिणः।
प्रेषयामास समरे भारद्वाजः प्रतापवान्॥ 7-125-37(50107)
स तस्य कवचं भित्त्वा हृदयं चामितौजसः।
अभ्यगाद्धरणीं बाणो हंसः पद्मवनं यथा॥ 7-125-38(50108)
पतङ्गं हि ग्रसेच्चाषो यथा क्षुद्रं बुभुक्षितः।
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे॥ 7-125-39(50109)
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत्।
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित्॥ 7-125-40(50110)
तमपि प्रहसन्द्रोणः शरैर्नित्ये यमक्षयम्।
महाव्याघ्रो महारण्ये मृगशावं यथा बली॥ 7-125-41(50111)
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत।
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत्॥ 7-125-42(50112)
स तु द्रोणं महाबाहुः शरधाराभिराहवे।
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा॥ 7-125-43(50113)
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः।
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः॥ 7-125-44(50114)
छादयित्वा रमे द्रोणं रथस्थं रथिनां वरम्।
जारासन्धिं जघानाशु मिषतां सर्वधन्विनाम्॥ 7-125-45(50115)
योयो विधीयते खण्डस्तंतं द्रोणोऽन्तकोपमः।
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः॥ 7-125-46(50116)
ततो द्रोणो महाराज नाम विश्राव्य संयुगे।
शरैरनेकसाहस्रैः पाण्डवेयान्समावृणोत्॥ 7-125-47(50117)
ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः।
नरान्नागान्हयांश्चैव निजघ्नुः शतशो मृधे॥ 7-125-48(50118)
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः।
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव॥ 7-125-49(50119)
ततो निष्टानको घोरः पाण्डवानामजायत।
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ॥ 7-125-50(50120)
प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः।
अन्वपद्यन्त पाञ्चालास्तदा सन्त्रस्तचेतसः॥ 7-125-51(50121)
मोहिता बाणजालेन भारद्वाजेन संयुगे।
ऊरुग्राहगृहीतानां पाञ्चालानां महारथाः॥ 7-125-52(50122)
चेदयश्च महाराज सृञ्जयाः काशिकोसलाः।
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया॥ 7-125-53(50123)
ब्रुवन्तश्च रणेऽन्योन्यं चेदिपाञ्चालसृञ्जयाः।
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः॥ 7-125-54(50124)
यतन्तः पुरुपव्याघ्राः सर्वशक्त्या महाद्युतिम्।
निनीपवो रणे द्रोणं यमस्य सदनं प्रति॥ 7-125-55(50125)
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः।
यमाय प्रेपयामास चेदिमुख्यान्विशेपतः॥ 7-125-56(50126)
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः।
पाञ्चलाः समकम्पन्त द्रोणसायकपीडिताः॥ 7-125-57(50127)
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नं च भारत।
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष॥ 7-125-58(50128)
भीम उवाच। 7-125-59x(4579)
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत्।
तथा हि युधि सङ्क्रुद्धो दहति क्षत्रियर्पभान्॥ 7-125-59(50129)
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः।
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत्॥ 7-125-60(50130)
द्रोणाग्निमस्त्रसंस्पर्शं प्रविष्टाः क्षत्रियर्पभाः।
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत॥ 7-125-61(50131)
यथाबलं यथोत्साहं यथासत्वं महाद्युतिः।
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः॥ 7-125-62(50132)
सञ्जय उवाच। 7-125-63x(4580)
तस्य तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः।
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः॥ 7-125-63(50133)
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः॥ 7-125-64(50134)
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम्।
तत्राधाय शरं तीक्ष्णं परानीकविशातनम्॥ 7-125-65(50135)
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत्।
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम्॥ 7-125-66(50136)
स भिन्नहृदयो वाहान्न्यपतन्मेदिनीतले।
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते॥ 7-125-67(50137)
अथ द्रोणं समारोहच्चेकितानो महाबलः।
स द्रोणं दशभिर्विद्ध्वा प्रत्यविद्ध्यत्स्तनान्तरे॥ 7-125-68(50138)
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान्।
तमाचार्यस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्दयत्॥ 7-125-69(50139)
ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत्त्रिभिः।
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः॥ 7-125-70(50140)
समरे शरसंवीता भारद्वाजेन मारिष।
चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम्॥ 7-125-71(50141)
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान्।
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष॥ 7-125-72(50142)
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्॥ 7-125-73(50143)
अथ द्रोणं महाराज विचरन्तमभीतवत्।
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम्॥ 7-125-74(50144)
ततोऽब्रवीन्महाबाहुर्द्रुपदो बुद्धिमान्नृप।
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव॥ 7-125-75(50145)
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः।
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः॥ 7-125-76(50146)
शतशः शेरते भूमौ निकृत्ता गोवृषा इव।
रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः॥ 7-125-77(50147)
सञ्जय उवाच। 7-125-78x(4581)
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः।
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम्॥ ॥ 7-125-78(50148)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वमि चतुर्दशदिवसयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः॥ 125 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-125-50 निष्टानकः कष्टस्वनः॥ 5-125-52 ऊरुग्राहः ऊरुस्तम्भः॥ 5-125-73 आकर्णमुपागतं पलितं केशादेः शौक्ल्यं यस्य। वयसा कालपिण्डसंयोगेन। अशीतिपञ्चकः चतुःशताब्दः॥ 5-125-125 पञ्चविंशत्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.